|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.55. अध्यायः 055
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनोदङ्काय विश्वरूपप्रदर्शनपूर्वकं पिपासाकाले जललाभरूपवरदानम्॥ 1 ॥ कृष्णेनोदङ्कायामृतदानं चोदितेनेन्द्रेण कदाचिद्वनमध्ये पिपासुमुदङ्कंप्रति चण्डालवेषेण जलस्वीकारप्रार्थने उदङ्केन चण्डालत्वबुद्ध्या तदधिक्षेपः॥ 2 ॥ पश्चात्तस्य तिरोधानेन परितप्यन्तमुदङ्कंप्रति तत्र संनिहितेन कृष्णेनेन्द्रकृतवञ्चनानिवेदनपूर्वकं मरुप्रदेशे जललाभरूपवरदानम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
उदङ्क उवाच।
अभिजानामि जगतः कर्तारं त्वां जनार्दन।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः॥ 14-55-1(93969)
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत।
विनिवृत्तश्च मे कोप इति विद्धि परंतप॥ 14-55-2(93970)
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन।
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय॥ 14-55-3(93971)
वैशम्पायन उवाच। 14-55-4x(7873)
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः॥ 14-55-4(93972)
स ददर्श महात्मानं विश्वरूपं महाभुजम्।
सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम्।
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम्॥ 14-55-5(93973)
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम्।
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम्॥ 14-55-6(93974)
उदङ्क उवाच। 14-55-7x(7874)
`नमोनमस्ते सर्वात्मन्नारायण परात्मक।
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव॥ 14-55-7(93975)
हिरण्यगर्भरूपाय संसारोत्तारणाय च।
पुरुषाय पुराणाय शान्तश्यामाय ते नमः॥ 14-55-8(93976)
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम्।
संसारार्णवसारं त्वां प्रणमामि गतिर्भव॥ 14-55-9(93977)
सर्ववेदैकवेद्याय सर्ववेदमयाय च।
वासुदेवाय नित्याय नमो भक्तप्रियाय ते॥ 14-55-10(93978)
दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि।
कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन॥' 14-55-11(93979)
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव।
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः॥ 14-55-12(93980)
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम्।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत॥ 14-55-13(93981)
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्॥ 14-55-14(93982)
वैशम्पायन उवाच। 14-55-15x(7875)
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय।
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्। 14-55-15(93983)
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते।
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम्॥ 14-55-16(93984)
तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय। अवश्यमेतत्कर्तव्यममोघं दर्शनं मम॥ 14-55-17(93985)
उदङ्कक उवाच। 14-55-18x(7876)
अवश्यं करणीयं च यद्येतन्मन्यसे विभो।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्॥ 14-55-18(93986)
ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ॥ 14-55-19(93987)
ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम्॥ 14-55-20(93988)
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्।
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम्॥ 14-55-21(93989)
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्।
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः॥ 14-55-22(93990)
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव।
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह।
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्॥ 14-55-23(93991)
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन।
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्। 14-55-24(93992)
पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत्।
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना॥ 14-55-25(93993)
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना।
श्वभिः सह महाराज तत्रैवान्तरधीयत॥ 14-55-26(93994)
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः।
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना॥ 14-55-27(93995)
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः।
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत्॥ 14-55-28(93996)
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम।
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो॥ 14-55-29(93997)
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः।
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्॥ 14-55-30(93998)
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै।
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः॥ 14-55-31(93999)
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः।
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः॥ 14-55-32(94000)
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत्।
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन॥ 14-55-33(94001)
अमृतं देयमित्येव मयोक्तः स शचीपतिः।
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्॥ 14-55-34(94002)
यदि देयमवश्यं वै मातङ्गोऽहं महामते।
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने॥ 14-55-35(94003)
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै।
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो।
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन॥ 14-55-36(94004)
स तथा समयं कृत्वा तेन रूपेण वासवः।
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्।
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः॥ 14-55-37(94005)
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्।
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम्॥ 14-55-38(94006)
येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति।
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः॥ 14-55-39(94007)
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन।
उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते॥ 14-55-40(94008)
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह।
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत॥ ॥ 14-55-41(94009)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चपश्चाशोऽध्यायः॥ 55 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-55-3 ते रूपमैश्वरमिति झ.पाठः॥ 7-55-19 एष्टव्ये जलेऽपेक्षिते सति॥ 7-55-21 मातङ्गं चण्डालविशेषम्॥ 7-55-22 अधः पाददेशे स्रोतसो दृतेर्वारीति संबन्धः। ततः शङ्कितमानस इति क.ट.थ.पाठः॥ 7-55-24 चिक्षेप निन्दितवान्॥ 7-55-27 प्रलब्धं वञ्चितम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|